गुरु वन्दना
ॐ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया |
चक्षुरुन्मीलितं येन तस्मै श्री गुरुवे नमः॥
मन्त्र सत्यं पूजा सत्यं सत्यमेव निरंजनम्।
गुरुर्वाक्यम सदा सत्यं सत्यमेव परं पदम्॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम्।
तत्पदं दर्शितं येन तस्मै श्री गुरुवे नमः॥
पितृ मातृ सुहृद बन्धु, विद्या तीर्थानि देवता ।
न तुल्यं गुरूनाम् शीघ्रं, स्पर्शमेव परं पदम् ||
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः।
गुरुः साक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः॥
ध्यानमूलं गुरोर्मूर्ति, पूजामूलं गुरोः पदम्।
मंत्रमूलं गुरोर्वाक्यम्, मोक्ष मूलं गुरोः कृपा ||
ब्रह्मानन्दं परम सुखदं केवलं ज्ञानमूर्तिम्।
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्॥
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं।
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥