Sankat Nashan Ganesh Stotram

Sankat Nashan Ganesh Stotram

संकटनाशन गणेश स्तोत्रम्


नारद उवाच


प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । 

भक्तावासं स्मरेन्नित्यमायुः कामाऽर्थसिद्धये ॥1॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् । 

तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥2।।

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च। 

सप्तमं विघ्नराजं च धूम्रवर्ण तथाऽष्टमम् ॥3॥

नवमं भालचन्द्रं च दशमं तु विनायकम् । 

एकादशं गणपतिं द्वादशं तु गजाननम् ॥4॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः । 

न च विघ्नभयं तस्य सर्वसिद्धिकरं प्रभो ॥5॥ 

विद्यार्थी लभते विद्या धनार्थी लभते धनम् । 

पुत्रार्थी लभते पुत्रं मोक्षार्थी लभते गतिम् ॥6॥ 

जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् । 

संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥7॥ 

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । 

तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥8॥

Recent Articles

Stay Serene, Stay Healthy

Astrolexaa | 2024-05-16 16:24:08

6th House

Astrolexaa | 2024-05-19 23:00:52

Lavender

Astrolexaa | 2024-05-16 16:24:54

Why is it Important to Worship

Astrolexaa | 2024-05-19 23:30:14
Recent Products