Sri Durga Saptashloki

Sri Durga Saptashloki

सप्तश्लोकी दुर्गा


शिव उवाच

देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्धयर्थमुपायं ब्रूहि यत्नतः॥ 

देव्युवाच

शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्। मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ।। 

ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः । 

अनुष्टुप् छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, 

श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकी दुर्गापीठे विनियोगः । 

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ।।1॥ 

दुर्गे स्मृता हरसि भीतिमशेषजन्तो: स्वस्थै: स्मृता मतिमतीव शुभां ददासि। 

दारिद्र्यदु:खभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥2॥ 

सर्वमङ्गलमङ्गल्ये शिवे सर्वार्थसाधिके । 

शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥3 ॥ 

शरणागतदीनार्तपरित्राणपरायणे । 

सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ 4 ॥ 

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । 

भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥5॥ 

रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।

त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥6॥ 

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । 

एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥7॥

॥ इति श्रीसप्तश्लोकी दुर्गा सम्पूर्णा ॥

Recent Articles

Kaal Bhairav Ashtakam

Astrolexaa | 2024-05-16 20:04:42

TOILETS

Astrolexaa | 2024-05-18 19:11:57

Green

Astrolexaa | 2024-05-16 16:25:12

Apricot

Astrolexaa | 2024-05-19 23:58:47
Recent Products