ACHYUTASHATAKAM

ACHYUTASHATAKAM

अच्युताष्टकम्


अच्युतं केशवं रामनारायणं कृष्णदामोदरं वासुदेवं हरिम् ।

श्रीधरं माधवं गोपिकावल्लभं जानकीनायकं रामचन्द्रं भजे ॥1॥

अच्युतं केशवं सत्यभामाधवं माधवं श्रीधरं राधिकाराधितम् । 

इन्दिरामन्दिरं चेतसा सुन्दरं देवकीनन्दनं नन्दजं सन्दधे ॥2॥ 

 विष्णवे जिष्णवे शंखिने चक्रिणे रुक्मिणीरागिणे जानकीजानये । 

वल्लवीवल्लभायार्चितायात्मने कंसविध्वंसिने वंशिने ते नमः ॥3॥

कृष्ण गोविन्द हे राम नारायण श्रीपते वासुदेवाजित श्रीनिधे ।

अच्युतानन्त हे माधवाधोक्षज द्वारकानायक द्रौपदीरक्षक ॥4॥ 

राक्षसक्षोभितः सीतया शोभितो दण्डकारण्यभूपुण्यताकारणः । 

लक्ष्मणेनान्वितो वानरैः सेवितोऽगस्त्यसम्पूजितो राघवः पातु माम् ॥5॥ 

धेनुकारिष्टकानिष्टकृद्द्द्वेषिहा केशिहा कंसहद्वंशिकावादकः । 

पूतनाकोपकः सूरजाखेलनो बालगोपालकः पातु मां सर्वदा ||6||

विद्युदुद्योतवत्प्रस्फुरद्वाससं प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् । 

वन्यया मालया शोभितोरःस्थलं लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥7॥

कुञ्चितैः कुन्तलैर्भ्राजमानाननं रत्नमौलिं लसत्कुण्डलं गण्डयोः । 

हारकेयूरकं कङ्कणप्राज्ज्वलं किङ्किणीमञ्जुलं श्यामलं तं भजे ॥8॥

अच्युतस्याष्टकं यः पठदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् । 

वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य वश्यो हरिर्जायते सत्वरम् ॥9॥

इति श्रीशङ्कराचार्यविरचितमच्युताष्टकं सम्पूर्णम् ।

Recent Articles

KRITTIKA

Astrolexaa | 2024-05-19 23:58:48

Jade

Astrolexaa | 2024-05-16 16:24:35

8th House

Astrolexaa | 2024-05-20 00:16:35

Nakshatra and Meaning

Astrolexaa | 2024-05-17 00:50:09
Recent Products