Bilvashtakam

Bilvashtakam

बिल्वाष्टकम्


त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्र्यायुधम् । 

त्रिजन्मपाप-संहारमेकबिल्वं शिवार्पणम् ॥1॥ 

त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमलैः शुभैः । 

शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् ॥2॥

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे । 

शुद्धयन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् ॥3॥

शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् । 

सोमयज्ञ-महापुण्यमेकबिल्वं शिवार्पणम् ॥4॥

दन्तिकोटिसहस्राणि वाजपेयशतानि च । 

कोटिकन्या-महादानमेकबिल्वं शिवार्पणम् ॥5॥ 

लक्ष्म्याः स्तनत उत्पन्नं महादेवस्य च प्रियम् । 

बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् ॥6॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् । 

अघोरपापसंहारमेकबिल्वं शिवार्पणम् ॥7॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे । 

अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम् ॥8॥

विल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ । 

सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥9॥

इति बिल्वाष्टकं सम्पूर्णम् ॥


Recent Articles

Selection of Land

Astrolexaa | 2024-05-18 21:15:35

Gray

Astrolexaa | 2024-05-16 16:24:22

MRIGASHIRA

Astrolexaa | 2024-05-17 10:15:04

Nakshatra and Mantra

Astrolexaa | 2024-05-19 07:26:48
Recent Products