Ganpati Mangal Stotram

Ganpati Mangal Stotram

Shri Ganpati Mangal Stotram


स जयति सिन्धुरवदनो देवो यत्पादपङ्कजस्मरणम् । 

वासरमणिरिव तमसां राशीन्नाशयति विघ्नानाम् ॥1॥

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः । 

लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥2॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः । 

द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥3॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा । 

संग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥4॥ 

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् । 

प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ॥5॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । 

पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥6॥ 

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।

नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥7॥

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । 

अभाललोचनः शम्भुर्भगवान् वादरायणः ॥8॥


Recent Articles
Recent Products