Shree Surya Mandala

Shree Surya Mandala

श्री सूर्यमण्डलात्मकं स्तोत्रं


नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । 

त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चिनारायणशङ्करात्मने ||1|| 

यन्मण्डलं दीप्तिकर विशाल रत्नप्रभं तीव्रमनादिरूपम् । 

दारिद्र्यदुः खक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥2॥

यन्मण्डलदेवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् । 

तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥3॥ 

यन्मण्डलं ज्ञानघनं त्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् । 

समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥4॥ 

यन्मण्डलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् । 

यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥5॥

यन्मण्डलं व्याधिविनाशदक्षं यदृग्यजुः सामसु संप्रगीतम् । 

प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ||6||

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसङ्घाः । 

यद्योगिनो योगजुषां च सङ्घाः पुनातु मां तत्सवितुर्वरेण्यम् ॥7॥

यन्मण्डलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके । 

यत्काल कल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥8॥ 

यन्मण्डलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् । 

यस्मिञ्जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ||9||

यन्मण्डलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्धतत्त्वम् । 

सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥10॥

यन्मण्डलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः । 

यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥11॥

यन्मण्डलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् । 

तत्ववेदं प्रणमामि सूर्य पुनातु मां तत्सवितुर्वरेण्यम् ॥12॥


मण्डलात्मकमिदं पुण्यं यः पठेत् सततं नरः । 

सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥

॥ इति श्रीमदादित्यहृदये सूर्यमण्डलात्मकं स्तोत्रं सम्पूर्णम् ॥

Recent Articles

10th House

Astrolexaa | 2024-05-19 06:31:02

Construction Remedies and Solutions

Astrolexaa | 2024-05-19 22:01:57

Purple

Astrolexaa | 2024-05-19 22:01:58

Shri Rudrashtakam

Astrolexaa | 2024-05-16 17:26:38
Recent Products