भजे व्रजैकमण्डनं समस्तपापखण्डनं स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् ।
सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं अनङ्गरङ्गसागरं नमामि कृष्णनागरम् ॥1॥
मनोजगर्वमोचनं विशाललोललोचनं विधूतगोपशोचनं नमामि पद्मलोचनम् ।
करारविन्द भूधरं स्मितावलोकसुन्दरं महेन्द्रमानदारणं नमामि कृष्णवारणम् ॥2॥
कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम् ।
यशोदया समोदया सगोपया सनन्दया युतं सुखैकदायकं नमामि गोपनायकम् ॥3॥
सदैव पादपङ्कजं मदीयमानसे निजं दधानमुक्तमालकं नमामि नन्दबालकम् ।
समस्तदोषशोषणं समस्तलोकपोषण समस्तगोपमानसं नमामि नन्दलालसम् ॥4॥
भुवो भरावतारकं भवाब्धिकर्णधारकं यशोमतीकिशोरकं नमामि चित्तचोरकम् ।
दृगन्तकान्तभङ्गिणं सदासदालसङ्गिनं दिने दिने नवं नवं नमामि नन्दसम्भवम् ॥5॥
गुणाकरं सुखाकरं कृपाकरं कृपाकरं सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् ।
नवीनगोपनागरं नवीनकेलिलम्पट नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥6॥
समस्तगोपनन्दनं हृदम्बुजैकमोदनं नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम् ।
निकामकामदायकं दृगन्तचारुसायकं रसालवेणुगायकं नमामि कुञ्जनायकम् ॥7॥
विदग्ध-गोपिकामनो-मनोज्ञ तल्पशायिनं नमामि कुञ्जकानने प्रवृद्ध-वह्निपायिनम् ।
किशोरकान्ति रञ्जितं दृगञ्जन सुशोभितं गजेन्द्र मोक्षकारिणीं नमामि श्री विहारिणम् ॥8॥
यदा तदा यथा तथा तथैव कृष्णसत्कथा मया सदैव गीयतां तथा कृपा विधीयताम् ।
प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान् भवेत्स नन्द-नन्दने भवे भवे सुभक्तिमान् ॥9॥