श्री यमुनाष्टकम्
मुरारिकायकालिमा ललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी।
मनोऽनुकूलकूल कुञ्जपुञ्जधूतदुर्मदा धुनोतु मे मनोमलं कलिन्दनन्दिनी सदा॥1॥
मलापहारिवारिपूरभूरिमण्डितामृता भृशं प्रपातकप्रवञ्चनातिपण्डितानिशम्।
सुनन्दनन्दनाङ्गसङ्गरागरञ्जिता हिता। धुनोतु ॥2॥
लसत्तरङ्गसङ्गधूत भूतजातपातका नवीनमाधुरीधुरीण भक्तिजातचातका ।
तटान्तवासदासहंस संसृता हि कामदा । धुनोतु ॥३॥
विहाररासखेदभेद धीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता ।
प्रवाहसाहचर्यपूत मेदिनीनदीनदा । धुनोतु ॥4॥
तरङ्गसङ्गसैकताञ्चितान्तरा सदासिता शरन्निशाकरांशु मञ्जुमञ्जरीस-भाजिता ।
भवार्चनाय चारुणाम्बुनाधुना विशारदा । धुनोतु ॥5॥
जलान्तकेलिकारिचारुराधिकाङ्गरागिणी स्वभर्तुरन्य दुर्लभाङ्ग सङ्गतांशभागिनी ।
स्वदत्तसुप्तसप्त सिन्धुभेदनातिकोविदा । धुनोतु ॥6॥
जलच्युता - ऽच्युताङ्ग रागलम्पटालिशालिनी विलोलराधिका कचान्तचम्पकालिमालिनी।
सदावगाहनावतीर्णभर्तृभृत्यनारदा । धुनोतु ॥7॥
सदैव नन्दनन्दकेलि शालिकुञ्जमञ्जुला तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला ।
जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा । धुनोतु ॥8॥
इति श्रीमच्छङ्कराचार्यविरचितं श्रीयमुनाष्टकं सम्पूर्णम्।