पञ्चमुखी हनुमान कवच
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः ।
एकवारं पठेन्नित्यं सर्वशत्रुनिवारणम्॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम्।
त्रिवारं पठते नित्यं सर्वसंपत्करं परम् ॥
चतुर्वारं पठेन्नित्यं सर्वजनवशीकरम् ।
पंचवारं पठेन्नित्यं सर्वरोगनिवारणम्॥
षड्वारं तु पठेन्नित्यं सर्वदेववशीकरम् ।
सप्तवारं पठेन्नित्यं सर्वकामार्थसिद्धिदम्॥
अष्टवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ।
नववारं पठेन्नित्यं सर्वैश्वर्यप्रदायकम् ॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् ।
एकादशं पठेन्नित्यं सर्वसिद्धिं लभेन्नरः ॥
कवचं स्मृतिमात्रेण महालक्ष्मीफलप्रदम्।
तस्माच्च प्रयता भाव्यं कार्य हनुमतः प्रियम् ॥
॥ इति पंचमुखिहनुमानकवचम् ॥