नवग्रह स्तोत्रम्
जपाकुसुम सङ्काशं काश्यपेयं महाद्युतिम।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥1॥
दधिशङ्खतुषाराभं क्षीरोदार्णव सम्भवम्।
नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् ॥2॥
धरणी गर्भ संभूतं विद्युत्कान्ति समप्रभम्।
कुमारं शक्तिं हस्तं तं मंगलं प्रणमाम्यहम् ॥3॥
प्रियङ्गकलिकाश्यामं रूपेणाप्रतिमं बुधम्।
सौम्यं सौम्य गुणोपेतं तं बुधं प्रणमाम्यहम्॥4॥
देवानां च ऋषीणां च गुरुं काञ्चनसन्निभम्।
बुद्धि भूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥5॥
हिम कुन्दमृणालाभं दैत्यानां परमं गुरुम्।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥6॥
नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥7॥
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्।
सिंहिकागर्भ सम्भूतं तं राहुं प्रणमाम्यहम् ॥8॥
पलाशपुष्पसङ्काशं तारकाग्रह मस्तकम् ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥9॥